________________
अज्ञायमानादिरमर्त्यनायक-श्रीरामकृष्णोरगपाम्बुपादिभिः । । नानाविधस्थानकृतार्चनश्चिरं, पार्श्वप्रभुः पातु भवात् स देहिनः ।।२५।।
अथवा-पायें श्रीकुन्थुनाथस्य, मम्मणव्यवहारिणा । पृष्टं मोक्षः कदा भावी, मम स्वाम्यपि तं जगौ ।।२६।।
तीर्थे श्रीपार्श्वनाथस्य, तव सिद्धिर्भविष्यति । अचीकरदिमामों, ततोऽसाविति केचन ।।२७।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे द्वादश उपदेशः ।।१२।।
१३८ उपदेश सप्तति