________________
वृत्ते तु षोडशे सार्चा, सर्वाङ्गं प्रकटाऽभवत् । अत एवाग्रवृत्ते तैः, पञ्चक्खेति पदं कृतम् ।।१७।।
फणिफणफारफुरंतरयणकररंजियनहयल, फलिणीकंदलदलतमालनीलुप्पलसामल । कमठासुरउवसग्गसंवग्गसग्गअगंजिय, जय पञ्चक्खजिणेसपास थंभणयपुरठिय ।।१।।
एवं द्वात्रिंशता वृत्तै-स्तुष्टुवुः पार्श्वतीर्थपम् । श्रीसङ्घोऽपि महापूजा-द्युत्सवांस्तत्र निर्ममे ।।१८।
अन्त्यवृत्तद्वयं तत्र, त्यक्त्वा देव्युपरोधतः । . चक्रिरे त्रिंशता वृत्तैः, सप्रभावं स्तवं हि ते ।।१९।
तत्कालं रोगनिर्मुक्ताः, सूरयस्तेऽपि जज्ञिरे । नव्यकारितचैत्ये च, प्रतिमा सा निवेशिता ।।२०।। स्थानाङ्गदिनवाङ्गानां, चक्रुस्ते विवृती: क्रमात् ।। , देवतावचनं न स्यात्, कल्पान्तेऽपि हि निष्फलम् ।।२१।। सौवर्णा नव्यनिष्पन्न-ग्रन्थपुस्तकसञ्चये । दृष्टा उत्तरिका भूपा-दिभिर्दिव्याऽनुभावतः ।।२२।।
पत्तने भीमभूपालो, द्रव्यलक्षत्रयव्ययात् । लेखयामास ताः सर्वा, वृत्तीः स्वपरसूरिभिः ।।२३।।
एवं ते सूरयो भूरि-कालं श्रीवीरशासने । चिरं प्रभावनां चक्रुः, प्राप्तसार्वत्रिकोदया: ।।२४।।
१३७ उपदेश सप्तति