________________
षट्शताशीतिवर्षाणि, तद्विम्बं गगने स्थितम् । तत्पूजनाश रोगाणां, शान्तिरासीत् समं ततः ।।२७।।
पूजार्थं द्वादशग्रामा-नर्चकेभ्यः स दत्तवान् । भूपालो भूरिकालं च, तं जिनेन्द्रमपूजयत् ।।२८।।
स्वर्गादत्र समागतस्य शरदां लक्षा गिरीशप्रमा, एकाशीतिशरत्सहस्त्रसहिता यस्य प्रभोः जज्ञिरे । त्रैलोक्याऽतिशयालुनाममहिमा माणिक्यदेवाभिधः, स श्रीआदिजिनश्चिराय भवतां सम्पद्यतां श्रेयसे ।।२९।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे एकादश उपदेशः ।।
१३४ उपदेश सप्तति