________________
"उपदेश:-११" दुर्वारमारिप्रमुखोपसर्गाः, देवाधिदेवार्चनतः क्षयन्ति । श्रीशङ्कराख्यक्षितिपस्य यद्व-न्माणिक्यदेवं यजतो जिनेन्द्रम् ।।१।।
भरतेन पुरा चैत्ये, कारितेऽष्टापदे गिरौ । वर्णाद्यैरन्विताः सर्व-जिनार्चा विनिवेशिताः ।।१।।
नीलरत्नमयी चैका, प्रतिमा प्रथमप्रभोः । अंशप्रांशुजटा तेन, तत्रास्ति स्थापिता पृथक् ।।२।।
अत एव जनस्तस्याः, अर्चाया अभिधीयते । माणिक्यदेव इत्याख्या, सप्रभावा च सा भृशम् ।।३।।
केचिदित्थं पुनः प्राहु-रियं भरतचक्रिणः । मुद्रिकामध्यवर्तिष्णु-पाचिरत्नविनिर्मिता ।।४।। .
एवं सा प्रतिमा तत्र, भूरिकालमपूज्यतं । . अन्येास्तत्र यात्रार्थं, खेचराः केचिदागताः ।।५।।
तां चाऽपूर्वतमा प्रेक्ष्य, प्रतिमां प्रीतचेतसः ।। निन्यिरे दक्षिणश्रेणी, प्रत्यहं पूज्यते च तैः ।।६।।
अन्यदा नारदस्तेषा-मतिथिः प्राप्तवानभूत् । निरीक्ष्य सोऽपि पप्रच्छ, प्रतिमेयं कुतो नु वः ।।७।।
तेऽप्यूचुरियमानीता-ऽस्माभिर्वताढ्यपर्वतात् । राज्यराष्ट्रादिभिवृद्धि-रभूशाऽस्याः समागमात् ।।८।।
१३१ उपदेश सप्तति