________________
इतश्चारासणग्रामे, पासिलः श्रावकोत्तमः । मन्त्रिगोगासुतो वित्त-हीनो वसति शुद्धधीः ।।२७।।
सोऽन्यदा घृततैलादि-विक्रेतुं पत्तने ययौ । कृत्वा तत्र स्वकार्याणि, श्रीगुरूंस्तानवन्दत ।।२८।।
तत्र राजविहारस्य, स प्रमाणं निभालयन् । नवप्नैकादशस्वर्ण-लक्षेट्छाडातनूजया ।।२९।।
हांसीनाम्न्या सोपहासं, भाषितः किमियत्प्रमम् । ' चैत्यं कारयितुं भ्रात-स्तवापि स्पृहयालुता ।।३०।।
सोऽप्याह भगिनि ! प्रायो, दुर्घटं मादृशामिदम् । बालस्य नहि शक्तिः स्यात्, सुवर्णाचलतोलने ।।३१।।
तथापि यदि कार्यत, प्रासादो जातुचिन्मया । आगन्तव्यं त्वया तत्रे-त्युक्त्वा स्वस्थानमगमत् ।।३२।।
आरराध ततोऽम्बां स, गुरूक्ताम्नायपूर्वकम् । दशोपवासैः प्रत्यक्षा, साप्यऽभूदस्य भाग्यतः ।।३३।।
ममानुभावात्ते भावी, रूप्यकृत्सीसकाकरः। तं वाहय स्वयं जैन-प्रासादं च विधापय ।।३४।।
इत्यादेशं समासाद्य, चैत्यं श्रीनेमिनः प्रभोः । स कारयितुमारेभे, ग्रामे तत्राऽन्यदा पुनः ।।३५।। आगता गुरवः केऽपि, पृष्टः श्रेष्ठी स तैरपि । भद्र ! निर्वहते कर्म-स्थायश्चैत्ये समाधिना ।।३६।।
१२३ उपदेश सप्तति