________________
स दृग्विषोऽपि भोगी श्री-गुरुमाहात्म्यतः परम् । निष्प्रभावोऽभवच्छक्तिः, कटरे कापि तापसी ।।१८।।
इतश्चैका शकुनिका, समागत्याऽतिवेगतः । उत्पाट्य तत्सर्पयुगं, मुमुचे नर्मदातटे ।।१९।।
निपत्य पादयोर्योगी, त्यक्त्वाऽहङ्कारमात्मनः ।। यथागतमगाद्दीनः, सोऽपि मुमुदेतमाम् ।।२०।।
भूपोऽथ सपरीवारः, प्रौढोत्सवपुरस्सरम् । स्वस्थाने प्रापयामास, तान् पूज्यान् श्रीगुरूत्तमान् ।।२१।। .
तस्यामेव निशीथिन्या-मागत्यैका सुरी जगौ। . श्रीगुरून् भगवन् ! योऽयं, सम्मुखो दृश्यते वटः ।।२२।।
अत्रावस्थितया पक्षि-ण्यैकया धर्मदेशना । अश्रावि भवतां तत्र, ज्येष्ठस्थितिविधायिनाम् ।।२३।।
साहं ततो मृता जाता, कुरुकुल्लासुरी विभोः ! । कृत्वा शकुनिकारूपं, मया सो निराकृतौ ।।२४।।
ततः श्रीगुरूभिश्चक्रे, कुरुकुल्लास्तवो नवः ।। यमद्यापि पठन् भव्यो, निषेधयति पन्नगान् ।।२५।।
ततः श्रीगुरूभिश्चक्रे, विहारः पत्तनोपरि । कियत्कालं स्थितास्तत्र, श्रीसङ्घस्य दृढाग्रहात् ।।२६।।
१२२ उपदेश सप्तति