SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ निषिध्य पितरं तत्र, त्रिपृष्ठो रक्षितुं ययौ । वेगवत्तरमारुह्य, रथं सारथिसंयुतः ।।२४।। तेनालापितमात्रोऽसौ, सिंहस्तं प्रत्यधावत । क्षमन्ते पौरुषोपेता, रेकारं किमु भूस्पृशाम् ? ।।२५।। शुक्तिसंपुटवद्वेषा, कृत्वा तस्यौष्ठयामलम् । विदार्यार्द्धमृतं चक्रे, सिंहं स प्रौढविक्रमः ।।२६।। . कृतो जयजयाराव, आसनव्यन्तरामरैः । निनिन्द स्वं पुनः सिंहो, नृमात्रेण हतो हहा ! ।।२७।। तदा मधुरया वाचा, सारथिस्तमसान्त्वयत् । भविता वासुदेवोऽयं, रङ्कमात्रमिदं नहि ।।२८।। पुरुषेन्द्रस्य हस्तेन, चेन्मृतः किं विषीदसि ? । मर्त्यलोके ह्ययं सिंह-स्तिर्यग्योनौ पुनर्भवान् ।।२९ ।। इति हृष्टस्तया वाचा, मृतः सिंहः समाधिना । भ्रामं भ्रामं भवाम्भोधो, ते त्रयोऽप्यभवन्क्रमात् ।।३०॥ त्रिपृष्ठजीवो यः सोऽहं, सिंहजीवः कृषीवलः । भवांश्च सारथेजीवः, तदिदं भवनाटकम् ।।३१।। त्वया मधुरया वाचा, यदसौ प्रीणितः पुरा । मया हतो वराकस्तु, स्नेहवैरे ततस्त्वम् ।।३२।। ९ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy