________________
निषिध्य पितरं तत्र, त्रिपृष्ठो रक्षितुं ययौ । वेगवत्तरमारुह्य, रथं सारथिसंयुतः ।।२४।।
तेनालापितमात्रोऽसौ, सिंहस्तं प्रत्यधावत । क्षमन्ते पौरुषोपेता, रेकारं किमु भूस्पृशाम् ? ।।२५।।
शुक्तिसंपुटवद्वेषा, कृत्वा तस्यौष्ठयामलम् । विदार्यार्द्धमृतं चक्रे, सिंहं स प्रौढविक्रमः ।।२६।। .
कृतो जयजयाराव, आसनव्यन्तरामरैः । निनिन्द स्वं पुनः सिंहो, नृमात्रेण हतो हहा ! ।।२७।।
तदा मधुरया वाचा, सारथिस्तमसान्त्वयत् । भविता वासुदेवोऽयं, रङ्कमात्रमिदं नहि ।।२८।।
पुरुषेन्द्रस्य हस्तेन, चेन्मृतः किं विषीदसि ? । मर्त्यलोके ह्ययं सिंह-स्तिर्यग्योनौ पुनर्भवान् ।।२९ ।।
इति हृष्टस्तया वाचा, मृतः सिंहः समाधिना । भ्रामं भ्रामं भवाम्भोधो, ते त्रयोऽप्यभवन्क्रमात् ।।३०॥
त्रिपृष्ठजीवो यः सोऽहं, सिंहजीवः कृषीवलः । भवांश्च सारथेजीवः, तदिदं भवनाटकम् ।।३१।।
त्वया मधुरया वाचा, यदसौ प्रीणितः पुरा । मया हतो वराकस्तु, स्नेहवैरे ततस्त्वम् ।।३२।।
९
उपदेश सप्तति