________________
तत्र सिंहासने प्रौढे, ते स्थिता राजमण्डिते । दीप्यन्ते स्मोदयाद्रिस्थ-सहस्रकरबिम्बवत् ।।९।।
योगी बभाण राजेन्द्र !, परे वादाः सुखावहाः । एष प्राणान्तिको वादो, मम शक्तिविलोक्यताम् ।।१०।।
सूरयोऽपि स्वमुत्कर्ष, पोषयन्तस्तमब्रुवन् । . रे वराक ! न जानासि, वयं सर्वज्ञसूनवः ।।११।।
आत्मनः परितः सप्त, रेखाः श्रीगुरुभिस्ततः । निर्मिताः पन्नगान्सोऽपि, मुमोच प्रचुरानपि ।।१२।।
परं केनापि नाक्रान्ता, षष्ठीरेखेव कर्मणाम् । . . योगी दीनमुखो जातः, उपायान्तरमातनोत् ।।१३।।, '
धृत्वाऽग्रे कदलीपत्रं, कटिस्थनलिकास्थितम् । मुमोच पन्नगं सद्यः, सञ्जातं तञ्च भस्मसात् ।।१४।।
भो लोकाः ! एष रक्ताक्षः, सद्योऽन्तकृदिति ब्रुवन् । तं मुमोच स दुष्टात्मा, पश्यत्यपि महाजने ।।१५।।
तन्मुक्तोऽन्यः पुनः सर्प-स्तद्वाहनमजायत । तत्प्रेरितोऽसावारोद्-मासने समढौकत ।।१६।।
सूरयो ध्यानमालम्ब्य, तस्थुः सुस्थिरचेतसः । लोको हाहारवं चक्रे, योगी स्मेरमुखोऽभवत् ।।१७।।
१२१ उपदेश सप्तति