________________
"उपदेशः-८" . निर्मापितं पासिलसंज्ञकेन, श्रद्धावता श्राद्धवरेण चैत्यम् । आरासणे श्रीगुरुदेवसूरि-प्रतिष्ठितं तीर्थमभूत्क्रमेण ।।१।।
मुनिचन्द्रगुरोः शिष्याः, सूरीन्द्राः देवसूरयः । तस्थिवांसो भृगुपुरे, चतुर्मासकमेकदा ।।१।।
चतुर्युताऽशीतिमिताः, क्रूरसर्पकरण्डिकाः । दधानः कान्हडो नाम, योगी तत्राऽन्यदा ययौ ।।२।।
अवदझैष सूरीन्द्राः !, मया सह विधीयताम् । विवादस्त्यजतां नो वा, सिंहासनमिदं महत् ।।३।।
अथ प्रोचुरनूचानाः, अरे मूर्ख ! त्वया समम् । , को वादः किं भवेयुद्धं, मृगेन्द्रस्य शुना समम् ।।४।। .
योगी प्राह - सर्पक्रीडामहं वेद्मि, यामि राजकुलादिषु । . सर्वेभ्योऽभ्याधिकं वत्स्वा-भरणादि लभे यतः ।।५।।
सूरयोऽप्यूचिरे योगिन् !, वादेच्छा कापि नास्ति नः । मुनयो ज्ञाततत्त्वाः स्यु-राहतास्तु विशेषतः ।।६।। तथापि कौतुकं चेत्ते, राजाऽध्यक्षं तदावयोः । वादोऽस्तु चतुरङ्गो हि, स कार्यो विजिगीषुभिः ।।७।।
ततस्तेन समं सर्व-श्रीसङ्घन च संयुताः । प्राप्ता राजसभां तत्र, राज्ञापि बहुमानिताः ।।८।।
१२० उपदेश सप्तति