________________
क्रमाद्गर्भगृहोत्तुङ्ग-मण्डपत्रितयान्वितम् । नानाचतुष्किकाकीर्णं, भूरिस्तम्भविभासुरम् ।।२०।।
विशालं वलभीमत्त-वारणैरुपशोभितम् । मेघमण्डपविभ्राजि, तोरणश्रेणिसुन्दरम् ।।२१।।
वामदक्षिणयोः शाला-युगलेन च मालितम् । कतिभिर्वासरैश्चैत्यं, स्वविमानमिवाऽजनि ।।२२।। त्रिभिर्विशेषकम् ।।
एवमेकत्र पार्श्वेऽभूत्, चैत्यं यादृक् तथाविधम् । तशिकारयिषुः शेष-दिकत्रयेऽपि स खल्वभूत् ।।२३।। परमत्रान्तरे पुत्रे-णैकेनेष कदाग्रहात् । पृष्टं तात ! कुतस्त्यास्ति, वित्तप्राप्तिस्तवेयती ।।२४।। . श्रेष्ठिनाप्यतिनिबन्धा-दुक्तं तदैवतं वचः । ततः प्रभृति वित्तस्य, प्राप्युपायोऽस्य नाऽभवत् ।।२५।।
चैत्यं तु तावदेवाऽभूत्, पारसश्रेष्ठिना ततः। ' प्रतिष्ठाविस्तरो भूयान्, प्रारेभे विस्मयप्रदः ।।६।। श्रीदेव सूरिप्रभुपट्टपङ्कज-प्रभाकराः श्रीमुनिचन्द्रसूरयः । चक्रुः प्रतिष्ठामिह बिम्बचैत्ययो-वेदाऽभ्रनेत्रक्षितिसम्मितेऽब्दके ।।२७।।
तचैत्यमुत्तुङ्गमनुक्रमेण, बभूव तीर्थं फलवर्द्धिसंज्ञम् ।। अद्यापि यत्रात्मकलङ्कपकं, प्रक्षालयन्त्यास्तिकसङ्घलोकाः ।।२८।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे सप्तम उपदेशः ।।७।। + यद्यप्यस्मत्पार्श्ववर्तिसमग्रपुस्तकेष्वेतादृश एव पाठ उपलभ्यते, परं ग्रन्थान्तरेऽनन्तरोपदेशे च देवसूरयो मुनिचन्द्रसूरीणां शिष्यत्वेन प्रोक्ताः सन्ति, फलवर्धिपार्श्वजिनप्रतिष्ठाऽप्येभिरेव कृतास्ति । अतः संभाव्यते यल्लेखकदोषेण ग्रंथकृत्प्रमादेन वा विपर्यासो जात इति ।। .
११९ उपदेश सप्तति