________________
आर्हती प्रतिमा काचि-बेनमत्राऽतिशायिनी । भाविनीति विमृश्यान्तः, खानयामासुराशु ते ।।११।।
प्रादुरास क्षणात्तत्र, श्रीमत्पार्श्वजिनेशितुः । . प्रतिमा प्राक्तनैः पुण्यैः, पीवरेन्दीवरप्रभा ।।१२।।
हृष्टः श्रेष्ठी पुरान्तस्तां, गृहीत्वा समहोत्सवम् । पूजयामास संस्थाप्य, क्वापि ताणे कुटीरके ।।१३।। .
बिम्बाधिष्ठायकाऽन्येा-य॑न्तरः श्रेष्ठीपुङ्गवम् । स्वप्ने जगाद प्रासादं, स्वामिनस्त्वं विधापय ।।१४।।
कारयामि कथं वित्ता-भावादित्याह तत्पुरः । . . . जगाद व्यन्तरोऽप्येनं, शृणु वाक्यमिदं मम ।।१५।।
प्रतिमायाः पुरो लोकै-ढौंकिता अक्षता अपि । सर्वे स्वर्णीभविष्यन्ति, मत्प्रभावात्प्रति प्रगे ।।१६।।..
एवं प्रासादयोग्यं ते, भावि वित्तमसंशयम् । सम्बन्धोऽयं न कस्यापि, निवेद्यो भवता परम् ।।१७।। .
चेद्वदिष्यसि तत्रैव, स्वर्णप्राप्तिस्ततः परम् । इत्युक्त्वाऽन्तर्दधे देवः, पारसोऽपि तथाऽकरोत् ।।१८।।
चैत्यमारम्भयाञ्चक्रे, शिल्पिभिः शुभवासरे । धीमद्भिर्धर्मकार्ये हि, विलम्बो न विधीयते ।।१९।।
११८ उपदेश सप्तति