________________
अन्यदा सूरिपादास्ते, नगरे मेडताऽभिधे । चतुर्मासी स्थिताः पुण्य-पेशलांस्तन्वते जनान् ।।३।।
व्याख्यानश्रवणं जिनौकसि गतिर्नित्यं गुरोर्वन्दनं, प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाकर्णनमात्मशक्तितपसा संवत्सराराधनं, श्राद्धजन्मफलं सदेति जगृहुः श्रीसूरिपादान्तिके ।।४।।
अथ श्रीसूरिपादास्ते, चतुर्मास्या अनन्तरम् । फलवद्धिपुरे प्रापु-मसिकल्पचिकीर्षया ।।५।।
तत्रास्ति नैष्ठिकः प्रष्ठः, श्रावकः पारसाभिधः । येन जैनमतं ख्याति-मनीयत विशेषतः ।।६।।
त्रिसन्ध्यमर्चत्ययमर्हतां ततीः, शुचिह्निरावश्यकमातनोति यः । शृणोति तत्त्वानि गुरोर्मुखाम्बुजा-त्परं दरिद्रो धिगहो ! विधेविधिः ।।७।।
बहिर्भूमिगतोऽन्येद्युः, पारसः श्रावकोत्तमः । ' ददर्शाऽम्लानपुष्पौष-मण्डितं लेष्टुसञ्चयम् ।।८।।
तथाविधं च तं दृष्ट्वा-ऽऽश्चर्यं चित्ते चमत्कृतः । आगत्य गुरुपादान्ते, तं वृत्तान्तमुवाच सः ।।९।।
विज्ञाय गुरवोऽ-प्येतत्स्वरूपं तन्मुखादथ । तेनैव श्रेष्ठिना सार्द्ध, तं प्रदेशमुपागताः ।।१०।।
(हिंसई - हेषित न पाइतमा हिंसिअ थाय छ भने हेषारव - हेषित पाणो जीयतेने हिंसिअ અથવા હિંસરું કહેવાય છે.)
११७ उपदेश सप्तति