SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ यथा तस्या भवेत् पूजा, भवद्भिः क्रियतां तथा । इत्युक्त्वाऽन्तर्दधे देव-स्तेऽपि तत्र गताः प्रगे ।।९।। भूमिं खनित्वा तां मूर्ति, रथे संस्थापयन्ति ते । यावत्तावत्समायाता, जीरापल्लीपुरीजनाः ।।१०।। .. तेऽभ्यधुर्भवतां कोऽय-मस्थानेऽत्र समागमः । अस्मत्सीमस्थितं बिम्बं, युष्माभिर्गृह्यते कुतः ।।११।। एवं विवादे सञ्जाते, वृद्धास्तत्र बभाषिरे । एको वोऽस्माकमेकश्च, नियोज्येतां वृषावुभौ ।।१२।। यत्र तौ नयतस्तत्र, देवो यातु निजेच्छया । . . भवतां किं विवादेन, कर्मबन्धकहेतुना ।।१३।। ' तथाकृते च तद्विम्बं, जीरापल्लयां समागतम् । तत्प्रवेशोत्सवश्चक्रे, महानेव महाजनैः ।।१४।। , पुरा चैत्ये स्थितं वीर-बिम्बमुत्थाप्य निर्मितम् । तदेव मुख्यं सङ्घन, सर्वानुमतिपूर्वकम् ।।१५।। आयान्त्यनेकशः सङ्घाः, विविधाऽभिग्रहैर्युताः । पूर्यन्ते प्रत्ययास्तेषां, तदधिष्ठायकेन च ।।१६।। एवं च तीर्थं तजातं, कुरुते धान्धलः पुनः । देवद्रव्यस्य चिन्तां तु, सर्वेभ्येषु धुरन्धरः ।।१७।। ११२ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy