________________
गृहाण वेषं यास्यामि, शिष्यो नास्मि तवाप्यहम् । इत्युक्त्वा त्यक्तवेषोऽसौ, मुष्टिं बद्ध्वा प्रनष्टवान् ।।१५।।
हसन्ति सर्वेऽपीन्द्राद्या-स्तादृक्तछेष्टितेक्षणात् । अहो ! उपार्जितः शिष्यो, वरीयानिन्द्रभूतिना ।।१६।।
पप्रच्छ गौतमो वीरं, मनाग् लजितमानसः । .. किमिदं कारितं स्वामिन् !, तत्त्ववार्ता निवेदय ।।१७।।
ग्रन्थिभेदः कृतोऽनेन, वत्साहद्गुणचिन्तनैः । 'लाभस्तवाभूदस्यैष, द्वेषो यन्मयि तत् शृणु ।।१८।।
पुरा पोतनकग्रामे, प्रजापतिनृपाङ्गजः । अभूवं वासुदेवोऽहं, त्रिपृष्ठ इति विश्रुतः ।।१९।। ,
'अश्वग्रीवो महाराज-स्तदा प्रत्यर्द्धचक्र्यभूत् । त्रिपृष्ठहस्तात्तन्मृत्युं, निमित्तज्ञोऽन्यदाब्रवीत् ।।२०।।
त्रिपृष्ठस्योपरि (ष्टात्तु) तदा, द्वेषमेष भृशं वहन् । चक्रे तन्मारणोपायान्, विफलास्ते तु जज्ञिरे ।।२१।।
शालिक्षेत्रेऽन्यदा तस्य, सिंहः कोऽपि बलोत्कटः । . करोत्युपद्रवं हन्तुं, न केनापि स पार्यते ।।२२।।
तद्वारकेण रक्षन्ति, नृपा मुख्यनृपाज्ञया । प्रजापतिक्षितिपते-रन्येधुर्वारकोऽभवत् ।।२३।।
१. “लाभस्तथाभू-" इत्यपि । २. प्रतिवासुदेवः । ३. युग्मम् ।।
उपदेश सप्तति