SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-६" श्रीजीरिकापल्लिपुरीनितम्बिनी, कण्ठस्थले हारतुलां दधाति यः । प्रणम्य तं पार्श्वजिनं प्रकाश्यते, तत्तीर्थसम्बन्धकथा यथाश्रुतम् ।।१।। पुरा नन्दाभ्रेश ११०९ संख्ये, वर्षे ब्रह्माणनामनि । महास्थाने भूरिजैन-शैवप्रासादसुन्दरे ।।१।। महेभ्यो धान्धलो नामाऽभवच्छ्रावकपुङ्गवः । एका च स्थविरा तत्र, वसति स्म गतस्मया ।।२।। तदीया सरभी चैका, क्षीरं क्षरति नित्यशः । सेहिलीसिन्धुपार्श्वस्थ-देवीत्रीगिरिगह्वरे ॥३॥ सन्ध्यायां मन्दिरे प्राप्ता, दुग्धं दत्ते न किञ्चन । पारम्पत्तिया ज्ञातं, तञ्च स्थानं कियद्दिनैः ।।४।। मुख्यानां धान्धलादीनां, तं वृत्तान्तं जगाद सा। ' तेऽपि सप्रत्ययं स्थान-मिति चेतस्यचिन्तयत् ।।५।। पवित्रीभूय ते रात्रौ, सम्भूय व्यवहारिणः । । पुण्यस्थाने स्वपन्ति स्म, स्मृत्वा पञ्चनमस्कृतिम् ।।६। एको नीलाश्वमारूढो, नरः कोऽपि सुरूपभृत् । तेषां पुरो जगादेति, स्वप्ने शुचिवचस्तदा ।।७।। यत्र सा क्षरति क्षिरं, धेनुस्तत्राऽस्ति संस्थिता । मूर्तिः श्रीपार्श्वनाथस्य, तदधिष्ठायकस्त्वहम् ।।८।। १११ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy