________________
एवं कृते स भीतोऽम्बा-वचसा चोपशान्तिभाक् । सम्यक्त्वं प्राप्य तत्रैव, क्षेत्रपालो बभूव च ।।२७।।
प्रासादः पूर्णतां प्राप्त-स्ततः सह मनोरथैः । अष्टकोट्यः सुवर्णानां, मन्त्रिणाऽत्र व्ययीकृताः ।।२८ ।।
अष्टाष्टखैकसंख्येब्दे १०८८ रीरीमूर्तिमतिष्ठिपत् । श्रीयुगादिजिनाधीशं, तत्र श्रीदण्डनायकः ।।२९।। .
तत: श्रीभीमदेवोऽपि, बहुमानपुरस्सरम् । विमलं सान्त्वयामास, पुण्येनाऽसाध्यमस्ति किम् ? ।।३०।।
तभ्राता वाहिलस्तत्र, मण्डपाद्यमचीकरत् । व्यवहारिवरैर्देव-कुलिकादि च कारितम् ।।३१।।
एवं प्रासादे सम्पूर्णे जाते केनापि चारणेनोक्तम् -
मांडीमरकीरइ करओ, छंडउं मंसगाह । . विमलडि खंडउं कड्डिउं, नट्ठउ वालीनाह ।।१।।
एवं विहाराः परमेश्वराणां, निर्मापणीया निजवित्तमानात् । भो भव्यलोकाः ! भवतां यथा जग-त्क्रोडे सदा क्रीडति शाश्वतं यशः ।।१।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे चतुर्थ उपदेशः ।।४।।
१०५ उपदेशं सप्तति