________________
तत्रैव प्रतिमा प्रोडा, श्रीयुगादिजिनेशितुः ।। अस्ति न्हालीकृता तां च, दृष्ट्वा तैर्नी निषेत्स्वते ।।१८।।
प्रतिमां तां च केऽप्याहु-स्तत्रैव प्रागभूदियम् । केचित्तदैवानीतेथे, देव्येत्याहुबहुश्रुताः ।।१९।।
भ्रग्नेऽपि तद्विवादेऽथ, चैत्यं निष्पद्यते गिरी । दिवाजातः परं रात्री, कर्मस्थायो विनश्यति ।।२०।। .
षण्मास्येवं व्यतिक्रान्ता, सचिन्तो विमलस्ततः । पुनः प्रत्यक्षतां निन्ये, देवीमम्बामुपासनैः ।।२१।।
अब्रवीदम्बिका मन्त्रिन् !, अधस्तादस्य भूभृतः । . वालिनाहाभिधानोऽस्ति, नागराजोऽतिदुर्मदः ।।२२।।
मिथ्यात्वदूषितो जैन-प्रासादं स न सासहिः । तदस्याराधनोपायं, सकर्णाऽऽकर्णयाऽऽधुना ।।२३।।
पूजोपहारमादायो-पवासत्रितयीयुतः । सन्ध्यायां ध्यानमाधाय, वालीनाहं त्वमाह्वय ।।२४।।
मार्गयत्येष नैवेद्यं, चेत्प्रदातव्यमेव तत् । मद्यादि याचते तर्हि, खड्गमुद्यम्य भापयेः ।।२५।।
तत्र खड्नेऽवतीर्णाऽहं, करिष्यामि त्वदीप्सितम् । इति प्रोच्य गता देवी, सचिवोऽपि तथाऽकरोत् ।।२६।।
१०४ उपदेश सप्तति