________________
इति तद्वाक्यपीयूषै-र्दवदग्ध इव द्रुमः । · सिक्तः समुल्लसत्प्रीति-रभूदिति च तं जगौ ।।६।।
अहं विप्रो वसाम्यत्रा-ऽऽसनग्रामेऽतिनिर्द्धनः । पापश्रेण्य इवाध्यक्षाः, सन्ति मे सप्त कन्यकाः ।।७।।
वज्राग्निकल्पा पत्नी मे, तया दग्धः करोमि किम् ? । दुष्पूरोदरपूर्त्यर्थं, मूढः किं न विधीयते ? ।।८।।
अतः परं त्वमेवासि, भ्राता माता पिताऽथवा । यदादिशसि तत् कुर्वे, करिष्ये नान्यथा वचः ।।९।। ततोऽर्पितः साधुवेषः, स्वीचक्रे सोऽपि तं तदा ।' चचाल तं सहादाय, गौतमोऽभिजिनं मुदा ।।१०॥
सोऽवादीद्गम्यते कुत्र ?, गुरवो यत्र सन्ति मे । , भवतामपि पूज्यानां, ये पूज्यास्ते तु कीदृशाः ? ।।११।।
तस्याग्रेऽर्हगुणाः प्रोक्ता-स्तेन सम्यक्त्वमर्जितम् । विशिष्य तु जिनेन्द्रस्य, समृद्धेरवलोकनात् ।।१२।।
क्रमेण यावदद्राक्षीत्, श्रीवीरं सपरिच्छदम् । तावत्तस्य हदि द्वेषः, कोऽप्यभूदतिदारुणः ।।१३।।
गौतमः प्राह वन्दस्व, श्रीजिनं सोऽपि तं जगौ । अयं गुरुस्त्वदीयश्चे-त्तदा मे न प्रयोजनम् ।।१४।।
७
उपदेश सप्तति