________________
विभाव्येत्यनुनेतुं तां, कायोत्सर्गं वितेनिरे । तत्प्रासादे यशश्चन्द्र-गणिना सह सूरयः ।। २१ । ।
आकृष्य जिह्वां देवी तु, तान् भापयति सैन्धवा । प्रहारान् मौशलांस्तत्र, यशश्चन्द्रगणिर्ददौ ।। २२ ।।
प्राच्यप्रहारे प्रासादे, प्रकम्पः समभून्महान् । दत्ते यावद्वितीयं तु, प्रहारं प्राणघातकम् ।। २३ ।।
तावत्सा सैन्धवाऽभ्येत्य, गुरुपादान् व्यजिज्ञपत् । वज्रपातप्रहारेभ्यो, भगवन् ! रक्ष रक्ष माम् ।।२४।।
तर्जिता गुरुभिर्भीता, क्षमयित्वा च तानियम् । : स्वस्थानमगमज्जातः, सचिवोऽपि निरामयः ।। २५ ।।
इत्थमुल्लाघ्य तं मन्त्रि- पुङ्गवं गुरुकुञ्जराः । इति स्तुतिं व्यधुर्गत्वा, प्रासादे सुव्रतेशितुः ।। २६ ।।
संसारार्णवसेतवः शिवपदप्रस्थानदीपाङ्कुराः, -: विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः । किं वाऽऽस्माकमनोमतङ्गजदृढालानैकलीलाजुष
स्त्रायन्तांनखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः । । १ । ।
सूरीन्द्राः पत्तनं प्रापु-र्मन्त्रिणा बहुमानिताः । सचिवोऽपि चिरं धर्म-प्रभावादभवत्सुखी ।। २७ ।।
एवं गुणश्रेणिमनोहाराणां प्रभावकश्रावकपुङ्गवानाम् । श्रुत्वा कथा: श्रीजिनमन्दिरादि-क्षेत्रेषु वित्तानि वपन्तु भव्याः ! ।।२८ ।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे तृतीय उपदेशः ।।३।।
१०९ उपदेश सप्तति