________________
इयं मदीया भो भूमि-उमसन्तोष्य यत्त्वया । प्रारम्भः कारितस्तत्ते, विघ्न एष कृतो मया ।।८।।
अधुना तव सत्त्वेन, तुष्टाहं तद्वरं वृणु। मन्त्रयाह तर्हि जीवन्तु, सर्वे कर्मकरा अमी ।।९।।
पुनर्जीवितमेतेषां, सार्द्ध तव मनोरथैः । भावीत्युक्त्वा गता देवी, मन्त्र्यपि प्राप सुस्थताम् ।।१०।।
गतेऽथ तत्र प्रत्यूहे, प्रासादं परिपूर्णताम् । स मन्त्री प्रापयामास, समं सर्वमनोरथैः ।।११।।
ततः प्रतिष्ठाकार्यार्थं, प्रीत्या तेन निमन्त्रितौ । नृपतिर्हेमसूरिश्च, तत्र प्रापतुराश्रमम् ।।१२।।
आजग्मुर्भूरिशस्तन, व्यवहारिपरम्पराः । सोऽपि सन्तोषयामास, तान्वस्त्राभरणादिभिः ।।१३।।
श्रीहेमसूरिभिस्तत्र, प्रतिष्ठा विस्तराः कृताः । मन्त्रिराजोऽप्यर्थिवर्ग, महादानैरतूतुषत् ।।१४।।
आरात्रिकाद्यवसरे, सर्वाङ्गाभरणान्यपि । ददानं याचकेभ्यस्तं, स्तुवन्ति स्मेति सूरयः ।।१५।।
"किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ।।१।।"
९९ उपदेश सप्तति