SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मार्गयित्वा कणानेष, पाका) यावदुद्यतः । चरिकां दत्तवान् भूमौ, तावत्प्रादुरभूनिधिः ।।२५।। सहस्रांशुसमज्योतिः, सौवर्णिकसहस्रभृत् । तनिधानं विलोक्येष, जातः प्रोत्फुल्ललोचनः ।।२६।। नूनं तीर्थप्रभावोऽयं, वराकस्य न मे पुनः । ... विमृश्येत्युत्सुको गत्वा, मन्त्रिणे तं समर्पयत् ।।२७।। मन्त्र्यपि प्राह भो भद्र !, तुष्टस्तव कपर्दिराट् । दत्ते स्म तदमुं भुक्ष्व, यथाकामं सुखी भव ।।२८।। सोऽपि तं सर्वथाऽनिच्छन्, समर्प्य स्वाश्रमं ययौं । एवं पुनः पुनस्तस्या-ऽभवत्पुण्यप्रभावतः ।।२९।। ततः सप्तमवेलायां, बलादर्द्ध समर्पितम् । .. मन्त्रिणा तस्य सञ्जातः, सोऽपि सौख्यकभाजनम् ।।३०।। क्रमेण पूर्णतां प्राप्त:, प्रासादोऽपि स मन्त्रिणः । तत्र द्रव्यप्रमाणं तु, वृद्धाः प्राहुरिदं पुनः ।।३१।। लक्षत्रयी विरहिता द्रविणस्य कोटी-स्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन्युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरिकः ।।३।। इति स्वतातप्रतिपन्नतीर्थ-जीर्णोद्धति मन्त्रिपतिविधाप्य । श्रीपत्तनं प्राप्य मतं जिनानां, प्रभावयन् श्रावकपुङ्गवोऽभूत् ।।१।। . ।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे द्वितीय उपदेशः ।।२।। ९७ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy