________________
"उपदेशः-२" आत्मीयतातप्रतिपन्नमर्थं, ये निर्वहन्ते तनयास्त एव । अमात्यमुख्योदयनस्य पुत्रौ, श्रीवाग्भटश्चामभटो यथैव ।।१।।
मरुमण्डलतो देवा-देशात्कर्णावतीं पुरीम् । प्राप्य जागरिते भाग्ये-ऽप्राप्तपूर्वी महानिधिम् ।।१।।
नीतः श्रीसिद्धराजेन, सर्वामात्येषु मुख्यताम् । ... अभूदुदयनो मन्त्री, पुण्यकार्यधुरंधरः ।।२।। युग्मम् ।।
आदिष्टः सोऽन्यदा तेन, जेतुं सुंसुरभूपतिम् । . गच्छन् सुराष्ट्राविषये, प्राप शत्रुञ्जयं गिरिम् ।।३।।
तत्र दारूमये चैत्ये, पाण्डवैः कारिते जिनान् । वन्दमानो ददर्शाखु-गृहीतां दीपवर्तिकाम् ।।४।।
।
अत्राग्न्युपद्रवो माऽभूत्, इति प्रासादकारणे । भूशय्याब्रह्मचर्याद्या-ऽभिग्रहानग्रहीदसौ ।।५।।
ततो गतः पुनस्तत्र, सञ्जाते घोरसङ्गरे । प्रहारजर्जरीभूतो, जगाद निजसेवकान् ।।६।।
शत्रुञ्जये भृगुपुरे, गिरिनारगिरौ तथा । प्रासादपद्यविषया, अभूवन्मे मनोरथाः ।।७।।
अहं तु प्राप्तवान् प्रान्ता-वस्थामस्थिरजीवितः । किं कुर्वे साम्प्रतं यद्वा, परतन्त्रा नियोगिनः ।।८।।
९४
उपदेश सप्तति