________________
"उपदेश-२"
भो भव्या ! यदि वः शिवं जिगमिषा सम्यक्त्वमेकं तदा, स्वस्वान्ते ध्रियतां स्थिरं किमपरैर्बाह्यक्रियाडम्बरैः ।
अन्तःसागरकोटिकोटिविहितायुर्वकर्मस्थितौ । · यल्लभ्यं प्रतिभूश्च मोक्षविषये तस्मिन् कथं नादरः ? ।।१।।
बलादपि श्राद्धजनस्य दीयते, सद्दर्शनं सर्वसुखैकज़न्मभू । .. व्यदीधपद्वीरजिनस्तदुद्यमं, श्रीगौतमेनापि न किं कृषीवले ? ।।२।।
एकदा श्रीमहावीरः, कल्पगुरिव जङ्गमः । . प्रोचे कुर्वन् तु विहारं, मार्गे श्रीगौतम प्रति ।।१।।
यः पुरः प्रेक्ष्यते वत्स !, वराकोऽयं कृषीवलः । . त्वत्तस्तस्य महांल्लाभो, भावी तद्गच्छ सत्वरम् ।।२।।
तत्तथेति प्रतिपद्य, गौतमस्तत्र जग्मिवान् । आलापितो हली भद्र !, समाधिस्तव वर्त्तते ।।३।।
कस्मात्करोषि पापानि, हलं वाहयसि मुधा । .. वराको वृषभावेतो, दुर्बलौ मा कदर्थय ।।४।। .
कथं पापकुटुम्बार्थ-मात्माऽनर्थे निपात्यते ? । तपस्यापोतमादाय, तदुत्तर भवाम्बुधिम् ।।५।।
१. “हलं वाहय मा मुधा" इत्यपि ।।
६
उपदेश सप्तति