________________
जयसिंहनृपोऽप्याशु, प्रत्यावृत्तोऽथ मालवात् । तत्रत्यं नृपतिं जित्वा, प्राप्तः श्रीदेवपत्तने ।।८।।
तत्र श्रीसोमनाथस्य, कृत्वा पूजादिकोत्सवान् । सर्वानाकारयामास, सुराष्ट्रीयाऽधिकारिणः ।।९।।
.
आयातास्तेऽपि तत्रैकः, परं नायाति सज्जनः । तद्वृत्तान्तश्च सर्वोऽपि, विज्ञप्तस्तै पाग्रतः ।।१०।।
तवृत्तश्रवणोद्भूत-प्रभूतक्रोधदुर्धरः । नृपः सजनमाहातुं, प्राहिणोदात्मनो जनान् ।।११।।
प्रीतः प्रासादनिष्पत्त्या, नृपाह्वनाश भीतिमान् । अथाऽसौ सजनः सर्वा-नाह्नयन् व्यवहारिणः ।।१२।।
उवाच यूयं गृहीध्वं, पुण्यं प्रासादसम्भवम् ।। यथादेशोत्थितं दण्डं, राजे विश्राणयाम्यहम् ।।१३।।
विभज्य तेऽपि तस्मै तत्, तावद्दव्यं समार्पयन् । स्वस्थीभूतः सज्जनोऽथ, नृपान्तिकमगाद्रुतम् ।।१४।।
रुष्टो नृपतिराचष्ट, करे ! द्रम्माः समानय । शीघ्रं तानन्यथा दास्ये, रे दुष्ट ! तव मस्तकम् ।।१५।।
सोऽपि विज्ञपयामास, निभीको नृपतिं प्रति । अस्ति न्यासीकृतं कोशे, द्रव्यं रैवतके मया ।।१६।।
९०
उपदेश सप्तति