SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ।। अथ द्वितीयः श्रीतीर्थाधिकारः प्रारभ्यते । "उपदेशः-१" समुद्धरन्ति प्रथमानसम्मदाः, केऽपि स्ववित्तैर्जिनमन्दिराण्यपि । यथा कृतार्थद्रविणः स सज्जनः, श्रीनेमिचैत्यं गिरनारपर्वते ।।१।। सुराष्ट्राविषये जाम्बा-पुत्रः सजनसंजितः । श्रेष्ठी श्रीमालवंशीयः, सदा शुभमनोरथः ।।१।। नियुक्तः सिद्धराजेन, दण्डनायकतापदे । निवासं वामनस्थल्यां, कुरुते धर्मकर्मठः ।।२।। अन्यदा सिद्धराजेन्द्रो, गतो मालवनीवृति । . . तत्र द्वादशवर्षाणि, विग्रहं कृतवानसौ ॥३।। , तत्र चावसरे काष्ठ-मयो देवालयः परम् । अस्ति सोऽपि क्वचिजीर्णो, गिरिनारमहीधरे ।।४।। पुरा दृषन्मयोऽप्येष, रत्नश्राद्धेन कारितः । बौद्धस्तीर्थमधिष्ठाय, कृतः काष्ठमयः पुनः ।।५।। तादृशं चैत्यमालोक्य, सज्जनो दण्डनायकः । अम्बिकादेशतो वर्ष-द्विःषट्कोद्ग्राहितैर्धनैः ।।६।। सदेवकुलिकायुक्त-मुजयन्तस्य मूर्द्धनि । प्रोत्तुङ्गशिखरं नेमिप्रासादं निरमापयत् ।।७।। ८९ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy