________________
विमृश्येति गृहद्वारे, जैनी मूर्तिमकारयत् । . श्रेष्ठी हिताय पुत्रस्य, सन्तो हि परवत्सलाः ।।६।।
गतागतिं वितन्वानो, नीचैर्भूय बलादपि । तस्याः प्रणामं पुत्रोऽसौ, करोति स्मोद्धतोऽपि सन् ।।७।।
अथायुषः क्षये मृत्वा, मत्स्यो जातः स तत्सुतः । स्वयम्भूरमणे हाहा !, प्रमादस्य विजृम्भितम् ।।८।।
स्वैराचारपरस्तत्र, भ्रमत्रम्बुधिपाथसि । मीनं जैनाकृतिं दृष्ट्वा, जातिस्मरणवानभूत् ।।९।।
विमुच्य वलयाकारं, समस्ताकारधारिणः । , महासमुद्रे विद्यन्ते, मत्स्या इति हि जैनगीः ।।१०।। .
महामोहविमूढेन, मया ही मानुषो भवः । . . हारितः स क्व मे भावी-त्यन्तस्तापं भृशं दधौ ।।११।।
तामेव प्रतिमां ध्यायन्नाहारमशनादिकम् । परित्यज्य प्रपेदेऽसौ, स्वविमानमभङ्गुरम् ।।१२।।
ग्रन्थान्तरेऽप्युच्यते -
"तातादेशवशादपीह नृभवे न त्वं मयाराधितस्तेनाहं भवसागरे निपतितोऽम्भोधौ महापातकी ।
८७ उपदेश सप्तति