________________
"उपदेशः-२४" . विनापि भावं विहितः प्रणामो, जिनेषु न स्यादफल: कदापि । स दुःसुतः श्रेष्ठिवरस्य मीनो-ऽप्यापत् प्रबोधं यत उद्धतोऽपि ।।१।।
अस्ति प्रशस्तविस्तारि-व्यवहारिगृहोत्करम् । क्षितिप्रतिष्ठितं नाम, पुरं सुरपुरोपमम् ।।१।।
तत्रास्ति नामकर्मभ्यां, जिनदास इति श्रुतः । श्रेष्ठी श्रेष्ठतमानेक-श्रीणां विश्राममन्दिरम् ।।२।।
द्यूतादिव्यसनी विद्या-विहीनः पशुसन्निभः । तनयः समभूत्तस्य, कुलकिम्पाकपादपः ।।३।।
समयं गमयामास, स तु धर्म विनैव ही। धर्मकचित्तः श्रेष्ठी तु, चिन्तयामासिवानिति ।।४।
ममापि तनयो भूत्वा, गमिष्यत्येष दुर्गतिम् । । उपायं तदेहं कुर्वे, येनैष सुगतिं व्रजेत् ।।५।।
उक्तं च
"जो गिहकुटुंबसामी, संतो संमत्तरोवणं कुणइ । तेण सयलोऽवि वंसो, उद्धरिओ भवसमुद्दाओ ।।१।।..
जो गिहकुटुंबसामी, संतो मिच्छत्तरोवणं कुणइ । तेण सयलोऽवि वंसो, पक्खित्तो भवसमुदंमि ।।२।।"
८६ उपदेश सप्तति