________________
पविसिय पुव्वाइ पहू, पयाहिणं पुवआसणनिविट्ठो । पयपीढठवियपाओ, पणमिय तित्थं कहइ धम्मं ।।७।।
धर्मोपदेशमेवं च, कुर्वाणे वीरतीर्थपे । आगात्तत्रत्यभूपोऽपि, देशनाकर्णनोन्मनाः ।।१०।।
वृद्धापि दुरवस्थान-स्थिता तां धर्मदेशनाम् । तदैव प्रकृतां हृद्या-माद्यन्तावधि चाशृणोत् ।।११।।
जिनेशवाक्सुधामेवं, कणेहत्य निपीय सा । तादृक् शरीरजं कष्टं, न विवेद मनागपि ।।१२।।
यतः -
"सव्वाउअंपि सोआ, खविन जइ इह सयं जिणो कहए। सीउण्हखुप्पिवासा, परिस्समभएवि अगणंतो ।।१।।"
सिन्दुवारादिपुष्पैस्तं, यजामीति विचिन्त्य च । यान्ती स्खलितपादाग्रा, प्राणानुज्झंचकार सा ।।१३।।
सौधर्मकल्पे देवोऽभूत्, स्वस्वरूपमवेत्य च ।। आगत्य वीरपादान्ते, स देवो नाट्यमातनोत् ।।१४।।
अत्यद्भुतं च तद्रूपं, वीक्ष्य पप्रच्छ भूपतिः । किमेष 'सर्वदेवेष्व-प्यधिकद्युतिमान् विभो ! ।।१५।।
.
१.“सर्वदेवेभ्यो-" इत्यपि ।।
८४ उपदेश सप्तति