SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ "उपदेश: - २३" श्रीजिनेन्द्र क्रमाम्भोजपूजाविधि- ध्यानमात्रादपीष्टं लभन्ते सुखम् । सा यथा दुर्गता वीरतीर्थेशितुः, पूजनायोत्सुका देवभूयङ्गता ॥ | १ || माकन्दीति पुरी ख्याता, विद्यतेऽत्रैव भारते । नाम्ना धाम्ना च तत्राऽभूत्, जितारिः पृथिवीपतिः । । १ । । तत्रैकश्रेष्ठिनो गेहे, स्थविरा काचिदक्षमा । अस्ति स्वोदरपूर्त्यर्थं, नीचकर्माणि कुर्व्वती ||२|| दासीव सकलं श्रेष्ठि-गृहकार्यं करोति सा । इन्धनानयनार्थं च ययौ क्वापि वनेऽन्यदा || ३ | . तदा च ग्रीष्मकालोऽभूत्, दुष्प्रापाणींधनान्यपि । तेन दूरेऽपि गत्वा सा, चिराद्दारुण्यमीलयत् ।।४।। वृद्धत्वेन श्लथं किञ्चित्, दारुभारं निबध्य सा । मन्दसत्त्वात्कृतोत्सूरा, ववले स्वपुरं प्रति ।।५।। आगच्छन्त्याश्च वृद्धायास्तस्या मार्गे शनैः शनैः । काष्ठभारादिन्धनानि द्वित्राणि न्यपतद्भुवि । । ६ । । तान्यादातुं करेणाऽर्द्धा-वनता भारभारिता । क्षुत्तृभ्यां पीडिताबाढ - मक्षमा यावदस्ति सा ।। ७ ।। ८२ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy