________________
भूयो भूय इति श्रुत्वा, तासां वाक्यानि सा शुनी । ईहापोहं वितन्वाना, जातिस्मरणवत्यभूत् ।।१८।।
ततः संवेगमापना, पापमालोच्य पूर्वजम् । समक्षं सर्वसिद्धाना-माहारं त्यक्तवत्यसौ ।।१९।।
क्रमान्मृत्वाऽभवद्देवी, सौधर्मे द्युतिभासुरा । ततोऽपि सुगतिं यास्य-त्यसौ धर्मप्रभावतः ।।२०।।
श्रुत्वेति वृत्तान्तममुं स्वभावात्, भोः प्राणभाजः प्रथमानभावाः । मात्सर्यमुत्सार्य विवेकवन्तः, कुर्वन्तु पुण्यानि समाधिमन्तः ।।२१।।
। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे द्वाविंश उपदेशः ।।२२।।
८१ उपदेश सप्तति