________________
सा पुनर्निजचैत्यस्य, द्वारे तिष्ठत्यनारतम् । विवेकविकला रौद्र-परिणामातिनिर्दया ।।९।।
अन्येधुः केवली कश्चित्, पुरे तत्र समागतः । सान्तःपुरोऽपि भूपस्तं, वन्दितुं भक्तितो ययौ ।।१०।।
केवली देशनां चक्र, कर्णपीयूषसारणिम् । अन्तःपुर्योऽथ पृच्छन्ति, तं मुनि विनयानताः ।।११।।
यदीयादरतोऽस्माक-मप्येष सुकृतादरः । भगवन् ! सा गता कुत्र, सपत्नी कुन्तलाभिधा ।।१२।।
सोऽप्यब्रवीदियं हन्त, कृत्वा धर्म समंत्सरम् । उत्पना कुकुरीत्वेन, मोहाचैत्येऽवतिष्ठते ।।१३।।
एवं निशम्य ताः सर्वा-स्तत्रागत्य जिनालये । ' सोपहासं सकारुण्यं, तां पश्यन्ति मुहुर्मुहुः ।।१४।।'
पुरः प्रत्यहमेतस्याः, पूपिकादि क्षिपन्ति ताः । आलापयन्ति सस्नेह, पुनस्तां कुकुरीमिति ।।१५।।
अपि धर्मपरायास्ते, भद्रे ! मत्सरदोषतः । ईदृक्कुयोनिरापना, बलीयस्त्वं हि कर्मणाम् ।।१६।।
ततो विमुच्य मात्सर्य, रम्यं धर्म समाचर । यतस्ते सुगतिप्राप्ति-बोधिश्च सुलभो भवेत् ।।१७।।
८० उपदेश सप्तति