________________
"उपदेश:- २२”
नो मत्सरः क्वापि विवेकिभिर्जिन - प्रासादपूजादिकधर्मकर्मणि । 'कार्यो ह्यनर्थाय भवेदयं यथा, श्रीकुन्तलायाः समजायत स्फुटम् ।।१।।
अवनिपुरमित्यस्ति, पुरं स्वर्गिपुरोपमम् । जितशत्रुरभूत्तत्र, भूपतिर्भूरिविक्रमः || १ ||
कुन्तलाऽभूत्प्रियातस्य, राज्ञः पट्टप्रतिष्ठिता । अपरा अपि संजाता - स्तस्य पत्यः परः शताः । । २ । ।
ताः कारयन्ति चैत्यानि, स्वस्वद्रव्यैरनेकशः । विस्तार्यन्ते पुनस्तासां कीर्त्तयो याचकव्रजैः । । ३ । ।
ततः सा कुन्तलादेवी, मत्सरग्रस्तमानसा । प्रासादं कारयामास, सविशेषं पुरान्तरे ||४||
-ध्वजस्नात्रादिकोत्सवान् ।
तत्रैव प्रत्यहं पूजाकरोति कारयत्येषा, स्वयं परिजनैरपि ।।५।।
प्रासादेषु सपत्नीनां दृष्ट्वा पूजादिकोत्सवान् । सन्तापं तनुतेऽत्यन्तं धिक् स्पर्द्धां विधुरात्मनाम् ।।६।।
स्वभावसरला वीत- मत्सरा अपराः पुनः । प्रेक्ष्य पुण्यादरं तस्याः, प्रशंसामेव तन्वते ।।७।।
एवं समत्सरं धर्म्म, कुन्तला कृतपूर्विणी । मृत्वार्त्तरौद्रध्यानाभ्यां सा शुनी समपद्यत ।।८।।
७९ उपदेश सप्तति