________________
पल्लीनिवासिनो भिल्लाः, अन्येद्युस्तं बभाषिरे । एहिरेयाहिरा भद्र !, सर्वदा तव दुष्करा ।।८।।
अत्रैव भुक्षे त्वं किं न, वसतिं वा करोषि न । सर्वेऽपि वयमेते स्म, किङ्करा इव ते यतः ।।९।।
अभाणीद्वणिजो देवे, भुझे नाहमपूजिते । तेन नित्यं गृहे यामि, भुञ्ज तत्पूजनादनु ।।१०।।
भिल्लाः प्रोचुः प्रफुल्लास्याः, एको देव इहापि भोः ! । अस्तीति तानि खण्डानि, संयोज्याऽस्मै प्रदर्शितः ।।११।।
अखण्डं तं च मन्वानः, ऋजुधीः सोऽप्यवन्दत । . शुद्धमम्माणिपाषाण-घटितं पुलकाङ्कितः ।।१२।।
पुष्पाद्यैः पूजयित्वा च, स्तुत्वा स्तोत्रैरनेकशः । . नित्यं तत्रैव भुक्त्यादि, चकार सरलाशयः ।।१३।। ,
अथान्यदा नाहलैस्तै-स्तत्पार्श्वे किञ्चिदर्थितम् । स तु तत्रार्पयत्तेन, ते किञ्चित्क्रोधमादधुः ।।१४।।
तद्विम्बं शकलीकृत्य, क्वापि गुप्तमधारयत् । पूजनाऽवसरे देव-मदृष्ट्वा स विषेदिवान् ।।१५।।
तदहन्युपवासोऽभूत्, तस्यैवं दिवसत्रयम् । भिल्लैः सानुशयैः पृष्टः, किमश्नासि न भो वणिक् ! ।।१६।।
७६ उपदेश सप्तति