SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-२१" ये सङ्कटेऽपि नियमं न परित्यजन्ति, ते वासवैरपि नराः परिपूजनीयाः । प्रापप्रसिद्धिमसमांवणिजोयथैकः, श्रीजैनपूजनविनिश्चयवान्धनाख्यः ।।१।। मण्डले मालवे नाम्नि, श्रीमङ्गलपुरं पुरम् । तत्प्रत्यासत्रभूतास्ति, पल्ली भिल्लसमाकुला ।।१।। चैत्यमेकं च तत्रास्ति, पुरा केनापि कारितम् । तस्मिंश्चतुर्थतीर्थेश-प्रतिमा चातिशायिनी ।।२।।' अन्यदा म्लेच्छसैन्येन, तत्राकस्मादुपेयुषा । तजिनायतनं भग्नं, स्वभाग्यमिव पापिभिः ।।३।। अधिष्ठातृप्रमादेन, प्रतिमाया जिनेशितुः । चैत्यालङ्कारभूतायाः, निर्ममे खण्डसप्तकम् ।।४।। सञ्जातखेदैस्तैभिल्लै-स्तत्त्वज्ञानबहिष्कृतः । सप्तानि तानि खण्डानि, संमील्यैकत्रं दधिरे ।।५।। इतश्च धारलीग्रामा-देकश्छेको वणिग्वरः । नित्यं तत्र समागत्य, क्रयविक्रयमातनोत् ।।६।। स तु श्राद्धो भुक्तिकाले, गृहे गत्वैव भुक्तवान् । अपूजिते जिनाधीशे, नियमस्तस्य भोजने ।।७।। ७५ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy