________________
पुरा जगत्त्रयाभीष्ट-नामा श्रीरामभूपतिः । यदा पुर्यामयोध्यायां, साम्राज्यं पर्यपालयत् ।।१।।
तदैकः कुक्कुरः कश्चित्रिविष्टो राजवर्त्मनि । केनचिद्ब्रह्मपुत्रेण, कर्करेण हतः श्रुतौ ।।२।।
श्वा निर्यलोहितो न्याय्य-स्थानं गत्वा निविष्टवान् । भूपेनाहूय पृष्टोऽवग, निरागाः किमहं हतः ? ॥३॥ .
तद्धातकं ब्रह्मपुत्रं, तत्रानाय्य नृपोऽब्रवीत् । असौ त्वद्धातको ब्रूहि, कोऽस्य दण्डो विधास्यते ।।४।।
श्वाऽवोचदस्य रुद्रस्य, माठापत्ये नियोज्यताम् । . क एष दण्डो राज्ञेति, भाषितः श्वा पुनर्जगी ।।५।।
प्रागहं सप्त जन्मभ्यः, पूजयित्वा सदाशिवम् । . . देवस्वभीत्या प्रक्षाल्य, पाणी भोजनमाचरम् ।।६।। ,
स्त्यानाज्यमन्यदा लिङ्गपूरणे लोकढौकितम् ।। विक्रीणानस्य काठिन्या-नखान्तः प्राविशन्मम ।।७।।
विलीनमुष्णभक्तेना-ऽजानता तन्मयाहतम् । तेन दुष्कर्मणा सप्त-कृत्वो जातोऽस्मि मण्डलः ।।८।।
सप्तमेऽस्मिन् भवे राजन् !, जात जातिस्मृतिर्मम । अधुना त्वत्प्रभावेण, जाता वाग्मम मानुषी ।।९।।
७३
उपदेश सप्तति