SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ इत्यादि बहुप्रकारश्रीआगमोक्तवाचोयुक्तिभिनिवारितोऽपि यावता लघुर्न तिष्ठति तावता वृद्धश्चिन्तयति स्म प्रातर्भूपाय निवेदयिष्यामीति । अत्रान्तरे अकस्माच्छूलेन रात्रौ मृतः व्यवहारिणः सुतो जातः । तत्र भवे भव्यान् भोगान् भुक्त्वा प्रान्ते व्रतं लात्वा प्राणतकल्पे देवो जातः । एवं सप्तभवान् दीक्षामाराध्य अच्युतादिषु देवत्वेन समुत्पद्य च क्रमेण सोऽहं युष्मत्पुत्रो युगन्धरो जातः । नागदेवस्तु तस्मिन्नेव भवे विज्ञातस्वरूपः सन् राजादिभिर्भृशं गर्हितः । भक्षितदेवद्रव्यपदे गृहीतगृहसर्वस्वश्च प्रान्ते षोडशवर्षाणि रोगातः शेषद्रव्यापणाय सुतानां कथयित्वा मृतः । पूर्वाभ्यासतश्च प्रतिभवं तथैव कुर्वन् सप्तसु नरकेषु तिर्यग्भवान्तरितो भ्रामं भ्रामं एष वराकः कुष्ठी जातः । यदुक्तं - भक्खणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा ! ।।१।। इति श्रुत्वा स कुष्ठी जातिस्मृति प्राप्य आलोचितसकलपापः, प्रान्ते प्रपन्नाननाशनो मृत्वाऽच्युते देवो जातः । क्रमेण महाविदेहे मोक्षंगमी । स च युगन्धरराजर्षिरपि क्रमेण सिद्धिसौधमध्यास्त ।। परसमयोक्तमप्युदाहरणं यथा - प्रभास्वे मा मतिं कुर्यात्, प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति, प्रभादग्धाः पुनर्नहि ।।१।। ७२ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy