________________
जयत्यतिशयश्रेणी, यदीया जगदद्भुता । लक्षणानां दशशती, येषामष्टाधिका पुनः ।।१२।।
यदुक्तं -
चउरो जम्मप्पभिई, इक्कारस कम्मसंखए जाए। नवदस य देवजणिए, चउतीसं अइसए वंदे ।।१।।
तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु, गोक्षीरधाराधवलं ह्यविस्त्रम् ।।२।।
आहारनीहारविधिस्त्वदृश्य-श्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि, नृदेवतिर्यञ्जनकोटिकोटेः ।।३।।
वाणी नृतिर्यक्सुरलोकभाषा-संवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताऽहर्पतिमण्डलश्रि ।।४।।
साग्रे च गव्यूतिशतद्वये रुजा, वैरेतयो मार्यतिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं, स्यानैत एकादश कर्मघातजाः ।।५।।
खे धर्मचक्रं चमराः सपाद-पीठं मृगेन्द्रासनमुज्वलं च । छत्रत्रयं रत्नमयध्वजोंऽहि-न्यासे च चामीकरपङ्कजानि ।।६।।
वप्रत्रयं चारु चतुर्मुखाङ्गता, चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । गुमानतिर्दुन्दुभिनाद उच्चकै-र्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ।।७।।
४
उपदेश सप्तति