________________
"उपदेशः-१९-२०" कुर्वन्ति देवद्रविणोपभोगं, ये ते नरा दुर्गतिगामिनः स्युः । कथानकान्यत्र बहूनि सन्ति, तथापि दिग्मात्रमुदाहियेत ।।१।।
इह खलु एकान्तश्रीदेवगुरुभक्तिकारकेण विशुद्ध श्रीसम्यक्त्वमूलद्वादशव्रतधारकेण सुश्रावकेण देवसम्बन्धिद्रव्योपभोगः सर्वथा न कार्यः, स्वपरसमयनिषिद्धत्वाद् बहुदोषसंभवाच ।
देवद्रव्येण या वृद्धि-गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ।।१।।
एकमपि कटुकतुम्बीबीजं भारसहस्रप्रमाणमपि गुडं विनाशयति । विषस्य लवोऽपि परमानभृतं स्थालं सर्वेषामनुपयोगि किं न विधत्ते ? ।
दृश्यन्ते च केऽपि मूर्खा देवद्रव्येण व्यवसायादि कुर्वन्तः, कदाचिनिर्द्धनत्वे जाते देवद्रव्यसाराविधायिभिस्तद्दव्यपश्चान्मार्गणे एवं वदन्तो यथा न सन्ति सम्प्रत्यस्मत्पार्श्वे द्रम्माः, पितृस्थानीयो वाऽस्माकं जिनः, नहि पितृधनं पुत्राणां किमप्यनादेयम्, इत्यादियत्तत्प्रलापिनो वराकास्तेऽनन्तानन्तसंसारक्लेशभाजनं भवन्ति । केचित्तु धनवन्तोऽपि महत्त्वस्पृहयालवः प्रभूतसमुदायमध्ये बहुद्युम्नपरिहितेन्द्रमाला लभ्यीकृत्य बहुदेवद्रव्या अपि तन्मार्गणे दीनमेव भाषन्ते, मनसापि तदर्पणं न वाञ्छन्ति । देवस्य किमपत्यानि क्षुधा म्रियमाणानि सन्ति । देवस्तव किमधिको मम किं न्यूनो, यदा विलोकयिष्यते तदानीमर्पयिष्यामि, इत्यादि कालक्षेपमेव कुर्बाणा उल्लुण्ठवादिनस्तेऽपि तेषामेव पती निवेशनीयाः ।।
अत्र भ्रातृद्वयोदाहरणम् -
७० उपदेश सप्तति