________________
इक्का चोरी सा जिकिय, जा खोलडइं न माइं। बीजी चोरी जे करई, चारण चोर न थाई ।।१।।
देव ! त्वया वणिग्मात्रे-णापि सर्वेऽपि तस्कराः ।। कथं विनाशिता एषा, परीक्षाद्य मया कृता ।।२०।।
ततो दत्त्वा बहुद्रव्यं, स्वस्थाने प्रेषयत्स तम् । . स्वयं त्वेकमनाः पूजा, कृत्वा भुक्त्याद्यसाधयत् ।।२१।। .
एवं सुभटकोटीषु, प्राप्तः कोटीरतामसौ.। . महीं निष्कण्टकां कुर्वन्, श्रावकः परमोऽभवत् ।।२२।।
· शुल्कं पोट्टलिकानां च, स मुमोच कृपापरः । ततोऽनु नगरे तत्र, सा 'व्यवस्थाग्रतोऽभवत् ।।२३।।
अद्यापि यः समादत्ते, करं तेभ्यो हठादपि । महाजनविरोधित्वात्, स चिरं नैव नन्दति ।।२४।।
एवमेष जिणहाभिधो वणिक, स्वान्ययोरुपकृतौ कृतादरः । । धर्मकृत्यनिरतश्चिरं क्रमात्, प्राप्तवान् सुगतिमद्भुतद्धिकः ।।२५।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारेऽष्टादश उपदेशः ।।१८।।
१. "ततो-इत्यपि" ||
६९
उपदेश सप्तति