________________
दास्यन्त्येते तवाभीष्टं, देवाः सेवापरेण ये । त्वयानीता गृहे भक्ति-बहुमानपुरस्सरम् ।।१९।।
स्मितपूर्वं भणन्ति स्म, ततो देवाः परस्परम् । गणेशश्चण्डिकां प्रोचे, भक्तेऽभीष्टप्रदा भव ।।२०।।
चण्ड्यपि प्राह यक्षोऽयं, दाताऽभीष्टानि यः स्वयम् । निविष्ट आसने प्रौढे, ममादौ पूज्यतेऽनिशम् ।।२१।। .
यक्षोऽपि दक्षोऽभाषिष्ट, दात्री शासनदेवता । यया पूर्वमपि दत्तं, रत्नमपूर्ववैभवम् ।।२२।।
एवं देवगिरं श्रुत्वा, परिहासपुरस्सरा'। विषण्णं श्रीधरं प्राह, जिनगृह्या महासुरी ।।२३।।
पश्य भो भद्र ! यद्देवै-रमीभिरखिलैरपि । . . अन्योऽन्याऽमर्षसम्पृक्त-स्तवोपेक्षा व्यधीयत ।।४।।
ततः सर्वानिमांस्त्यक्त्वा, जिनमेकाग्रचित्ततः ।। पूजय त्वं यतोऽमुष्मिन् !, पूजिते सर्वसिद्धयः ।।२५।।
यजिताचरितैः सर्वे-देवैर्देवत्वमाप्यते । ततः समग्रदेवाना-मयमेवाऽत्र दैवतम् ।।२६।।
इत्यवेत्य निराकाङ्क्षो, यक्षादीनाह सादरम् । कृत्वा प्रसादं मद्नेहात्, यूयं यात निजं पदम् ।।२७।।
६४ उपदेश सप्तति