________________
रत्नानुभावतो लक्ष्मी - वर्द्धतेऽस्य यथा यथा । जिनपूजादरोऽप्यस्य, स्पर्द्धयेव तथा तथा ।।९।।
अथाऽन्यदिवसेऽ श्रोषी - मनीषी कस्यचिद्वचः । यथाऽस्मिन्पूजिते यक्षे, प्राप्यते फलमीप्सितम् ।।१०।।
. श्रीधरोऽपि ततस्तस्य, यक्षस्यार्द्धामचीकरत् । अतृप्तः पूजयामास, तामप्यासनमण्डिताम् ।।११।।
एवं लोकोक्तिश्चण्डीं, गणेशं चाप्यपूजयत् । क्व विवेकाऽवकाशः स्यात्, गुणदोषाऽवजानताम् ।।१२।।
अन्यदा गृहसर्वस्वे, तस्करैर्मुषिते सति । संक्षुब्धमानसो यावत्तावद्रत्नं विलोकते । । १३ ।।
तावद्देवीवरप्राप्त-मदृष्ट्वा तं महामणिम् । दुःखितः श्रीधरो जज्ञे, विज्ञमन्योऽपि सर्वदा ।। १४ ।।
पद्मापि रत्नाभावेन, समस्ता तद्गृहागता । भोजनस्यापि सन्देहः, पपात प्रतिवासरम् ।।१५।।
ततो देवाग्रतस्तस्थौ दिनत्रयमुपोषितः । दिने तृतीये तेऽप्याहुः, प्रत्यक्षीभूय तत्पुरः ।। १६ ।।
किमर्थमस्मानस्मार्षी - स्त्वमेवं लङ्घनोद्यतः । यूयं मम मनोऽभीष्टं, कुरुध्वमिति सोऽप्यवक् ।।१७।।
कुलदेवी ततोऽवादीत्, दुष्टनिष्ठुरमानस ! । रे दुष्ट ! शीघ्रमुत्तिष्ठ, याहीदानीं ममाग्रतः ।। १८ ।।
६३ उपदेश सप्तति