________________
"उपदेश-१७" .. गुणदोषाऽपरिज्ञाना-त्सर्वदेवेषु भक्तिमान् । यः स्यात् श्रीधरवत् पूर्वं, स तु नैवाश्नुते सुखम् ।।१।। निष्काङ्क्षमानसः साक्षा-ल्लभते स्वर्गसम्पदः । पश्चाद्यथा स एवेह, त्यक्ताकाङ्क्षोऽभवत्सुखी ।।२।।
पुरे गजपुराभिख्ये, बभूव श्रीधरो वणिक् । प्रकृत्या भद्रको मुग्धो, यत्र तत्राभिलाषवान् ।।१।।
अन्यदेति मुनेः पार्श्वे, सोऽशृणोन्मसृणाशयः । श्रीजिना_रतः प्राणी, प्राप्नोति फलमीप्सितम् ।।२।। श्रुत्वैतत्कारयित्वा च, प्रतिमामाईती सुधीः । त्रिसन्ध्यं पूजयामास, श्रीधरो भक्तिनिर्भरः ।।३॥ , धूपोत्क्षेपपरोऽन्येद्यु-रग्रहीदित्यभिग्रहम् । अनिष्ठितेऽस्मिन् धूपे हि, नेतः स्थानाशलाम्यहम् ।।४।।
अथाऽकस्मादहिस्तत्र, निर्गतो दैवयोगतः । . तं तथानिश्चलात्मानं, दुष्टो दशति यावता ।।५।। जिनार्यानिश्चयात्तुष्टा, तावच्छासनदेवता । सर्पमुत्सारयामास, श्रीधरात्तं तथास्थितात् ।।६।।
तुष्टास्मीति ततोऽवादी-देवी तं श्रीधरं प्रति । यदेवं दृढता बाढं, तव श्रीजिनपूजने ।।७।। तद्गृहाण मणिं लक्ष्मी-प्रदमेनं भवानहो ! । पूर्णप्रतिज्ञः सोऽप्येवं, जगृहेऽन्तहिता च सा ।।८।।
६२
उपदेश सप्तति