SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ पूजाचतुर्विंशतिकाऽत्र वाच्या, प्राच्ये कियत्तीर्थनुतिद्वितीये । गुरुस्तृतीये द्विविधश्च धर्म-स्तुयें तथा पञ्चमकेऽधिकारे ।।६।। अर्हद्गुणस्मृतिध्यान-यात्राचैत्यस्तवार्चनैः । सद्धर्मगुरुसेवाद्यैः, सम्यक्त्वस्थिरता भवेत् ।।७।। प्रायः कुटुम्बधनधान्यसुवर्णरत्न-प्रायेषु वस्तुषु नृणां सुलभो विवेकः । सद्देवधर्मगुरुतत्त्वविवेचने तु, केषाञ्चिदेव मतिरुल्लसितं तनोति ।।८।। विधीयमानं गुणवजनार्चनं, पुंसामसीमास्तनुते सुसम्पदः । गुणाश्च सम्पूर्णतया जिनं विना, न स्युस्ततोऽर्यो भविकैर्जिनेश्वरः ।।९।। यजन्मावसरे देवा, देव्योऽनाकारिता अपि । आगत्य सर्वे कुर्वन्ति, प्रौढोत्सवपरम्पराः ।।१०।। ज्ञानदर्शनचारित्रप्रमुखा सद्गुणावली । विलक्षणाऽन्यदेवेभ्यो, येषां जागर्त्यऽनुत्तरा ।।११।। तथाहि - छत्रत्रयं शिरोदेशे, पार्श्वयोश्चामरावली । नवग्रही च पादान्ते, देवस्याऽन्यस्य नेक्ष्यते ।।१।। मण्डपाष्टशतं चैत्ये, स्थित्यै वप्रत्रयी वरा । गत्यै स्वर्णनवाम्भोजी, देवस्याऽन्यस्य नेक्ष्यते ।।२।। धर्मचक्र पुरो भास्वत्, पृष्ठे भामण्डलं पुनः । उरिन्द्रध्वजो व्योम्नि, देवस्यान्यस्य नेक्ष्यते ।।३।। ३ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy