________________
"उपदेश-१६” ' चेतः पुनाति घनकर्मवनं लुनाति, 'स्वर्ग ददाति शिवसम्पदमादधाति । पुण्योदयं वितनुते सुखानि, श्रीजैनपूजनमिदं किल किं न दत्ते ? ।।१।।
मिथ्यादृग्भव्यभावेन, पूजां कृत्वा जिनेशितुः । अशोको मालिको लेभे-ऽद्भुतां सौख्यपरम्पराम् ।।२।।
महाराष्ट्रे महाराष्ट्र, ग्रामे हल्लूरनामनि । मिथ्यादृग् भद्रकस्वान्तो, बभूवाशोकमालिकः ।।१।।
अन्यदा पर्वणि क्वापि, श्राद्धरेष विनिर्मिताम् । दृष्ट्वा जिनेशितुः पूजां, मनस्येवमचिन्तयत् ।।२।।
वस्त्रं पवित्रं परिधाय ये श्री-जिनं यजन्ते भुवि ते प्रशस्याः । न मादृशाः किन्तु सदा दरिद्राः, न धर्मगन्धोऽपि यदीयचित्ते ।।३।।
आकर्णिणतोऽपि महितोऽपि निरीक्षितोऽपि, . नूनं न चेतसि मया विधृतोऽसि भक्त्या । . जातोऽस्मि तेन जनबान्धव ! दुःखपात्रं, . यस्मात्क्रिया: प्रतिफलन्ति न भावशून्याः ।।४।।
निर्भाग्यं स्वं ततो निन्दं-स्तदैवोत्पन्नवासनः । विक्रीतोऽद्धरितैः पुष्प-नवभिर्जिनमार्चयत् ।।५।।
एलाभिधपुरे राजा, जितारियतत्परः । प्रिया तस्याभवन्नाम्ना, श्रीकान्ता शीलशालिनी ।।६।।
५९ उपदेश सप्तति