________________
"उपदेश-१५" विधाय दीपं जिनपुङ्गवाना-मग्रेऽथ सर्वं निजगेहकृत्यम् । तेनैव चेन् मन्दमति: करोति, प्राप्नोति मूर्खः स कुयोनिभावम् ।।१।।
अरविन्दपुरे राजा-ऽजितसेन इति श्रुतः । तत्रैव वसति श्रेष्ठी, देवसेनो वणिग्वरः ।।१।।
कुर्वाणो धर्मकर्माणि, श्रद्दधानोऽर्हतां वचः । दीनादिषु ददद्दानं, समया कुरुते स्म सः ।।२।।
औरधिकोऽस्ति तत्रैक-स्तद्गहान्मोहमोहिता । . आयाति श्रेष्ठिनो गेहे, काचिदुष्ट्री प्रतिप्रये ।।३।।
स तु तां कुट्टयामास, लकुटैः कृपयोज्झितः । न तिष्ठति तथाप्येषा, तद्गुहागमनं विना ।।४।।
ततो जग्राह तां श्रेष्ठी, मूल्येनापि कृपापरः ।। प्रमोदमेदुरा सापि, सुखेनास्थात्तदोकसि ।।५।।
अन्येचुस्तत्पुरे प्रापु-राचार्या धर्मसूरयः । राजादिलोकसर्वोऽपि, वन्दितुं तत्र चाययौ ।।६।।
श्रीधर्मदेशना चक्रे, सूरिभिर्धर्मभूरिभिः । पप्रच्छ करभीवृत्तं, श्रेष्ठी धर्मिष्ठमानसः ।।७।। गुरुः प्रोवाच भो वत्स !, तवैषा जननी ह्यऽभूत् । प्राग्भवे मनसोऽभीष्टा, पूज्या स्वजनसन्ततेः ।।८॥
५६ उपदेश सप्तति