________________
राजापि सपरीवारो, वन्दितुं प्राप्तवान्मुनिम् । व्याजहार मुनिर्धर्म, संसारासारतामयम् ।।७।।
सा मातङ्गयपि तत्रागात्, नृपं दृष्ट्वा च मोहिता । प्रश्रवन्ती पयः पुत्र-स्नेहो हि दुरतिक्रमः ।।८।।
तथारूपां च तां दृष्ट्वा, नृपः पप्रच्छ तं मुनिम् । केयं कथं च मोहः, एतस्यामपि हे मुने ! ।।९।। .
मुनिः प्राह कुमारेयं, तव माता यतो मया । त्वं बहिष्पतितो लेभे, राज्यं चाऽपुत्रिणा ददे ।।१०।।
नृपः प्राहू कुतो हीन-कुले मे तात ! सम्भवः ।. कथं वा राज्यसम्प्राप्तिः, सर्वमेतनिवेदय ।।११।। ।
मुनिः प्राह महाराज !, प्राग्भवे त्वं महद्धिकः । श्रावकः समभूः सर्व-व्यवहारिशिरोमणिः ।।१२।।
दानध्यानतपःपूजा-पौषधावश्यकादिभिः। . चिरं प्रभावनां चक्रे, भवान् श्रीजिनशासने ।।१३।।
निर्विवेकतया किन्तु, ह्यस्तनैः पतितैरपि । सद्गन्धैरथ दुर्गन्धैः, पुष्पैः श्रीजिनमार्चयत् ।।१४।।
कदाचिनिर्मितस्नानो, जातु स्नानविवर्जितः । • दुर्वस्त्रो वा सुवस्त्रो वा, प्रायो देवमपूजयत् ।।१५।।
५४ उपदेश सप्तति