________________
दत्ते न किञ्चित्कस्मैचि-त्र तुष्यति न रुष्यति । किमर्थं सेव्यते ह्येष, भवद्भ्यां भवतृष्णया ।।१८।।
सरोषतर्जुनं ताव-प्यूचतुर्द्धरणं प्रति । स्वमार्गे गच्छ भोः पान्थ !, चिन्तया किं करोषि नः ।।१९।।
अवादीत् धरणो नाहं, पथिकः किन्तु नागराट् । राज्यादि दाता याचेथां, तधुवां यद्विलोक्यते ।।२०।।
त्रैलोक्यं यच्छसि त्वं चे-न कार्यं तदपि त्वया । यदि दास्यति तदाता, स्वाम्येव खलु नापरः ।।२१।।
भक्तिस्थैर्यमिति ज्ञात्वा-ऽवातरत्स्वामिनो मुखे । तुष्टो भवद्भ्यामेषोऽहं, साम्राज्यं गृह्यतामिदम् ।।२।।
इति प्रोच्य स वैताट्या-ऽधिपत्यं प्रददे तयोः । अष्टनषट् ४८ सहस्राणि, प्रौढविद्याश्च विश्रुताः ।।२३।।
दत्त्वैवं राज्यविद्यादि-सम्पदं धरणस्तयोः । निजं स्थानमगात्ताव-प्येवं तुष्टुवतुर्जिनम् ।।२४।।
.
जय त्रिजगतीजन्तु-जातनिर्वाहकारक ! । जय प्रथमतीर्थेश !, जय संसारतारक ! ।।२५।।
अथ प्रथमनाथं तौ, प्रणत्य गगनाङ्गणे । उत्पत्य यातौ वैतान्ये, राजधानी च चक्रतुः ।।२६।।
५१ उपदेश सप्तति