________________
यदा श्रीऋषभो दानं, दत्तवान् वार्षिकं जने । तदा कच्छमहाकच्छ-सुतौ देशान्तरे गतौ ।।९।।
नाम्ना नमिविनम्याख्यौ, प्राप्तवन्तौ निजे गृहे । . तादृक् स्वरूपं विज्ञाय, तातपार्श्वे समीयतुः ।।१०।।
पृष्टं च ताभ्यां किमिदं युवाभ्यामारब्धमेतावपि तत्स्वरूपम् । . सर्वं यथावृत्तमवोचतां त-द्यातां गृहे श्रीभरतोऽस्ति राज्यदः ।।११।।
साभिमानतया चक्रु-रवज्ञां भरतेशितुः । स्वाम्येव राज्यदाता नः, सर्वसाधारणो हि सः ।।१२।।
इत्युक्त्वा तौ नमस्कृत्य, ततो यातौ वनान्तरे । . . . यत्रास्ति प्रतिमानिष्ठः, स्वामी श्रीऋषभप्रभुः ।।१३।।
प्रात: पानीयमानीय, प्रक्षाल्य चरणौ प्रभोः । . पूजयित्वाम्बुजैः स्वामिन् !, राज्यं देहीति वादिनौ ।।१४।।
निष्कोशखड्गहस्तौ तौ, पार्श्वयोरुभयोरपि । दत्तदृष्टी प्रभोः सेवा-सावधानौ बभूवतुः ।।१५।।
एवं वितन्वतोः सेवां, तयोरन्येधुराययो । धरणेन्द्रमहाराजो, नमस्कर्तुं जिनेश्वरम् ।।१६।।
तथाविधौ च तौ दृष्ट्वा, सेवाकर्मणि लालसौ । बभाषे भो महाभागौ !, स्वाम्येष खलु निर्ममः ।।१७।।
५०
उपदेश सप्तति