________________
"उपदेश-१३" द्रव्यतोऽपि विहिता जिनपूजा, स्याच्छुभायतिकृते तनुभाजाम् । श्रीनमिं च विनमिं च मुनीन्द्राः, प्राहुरुत्तमनिदर्शनमत्र ।।१।। अस्त्ययोध्या पुरी तत्र, स्वामी श्रीवृषभध्वजः । ऐहिकामुष्मिका येन, व्यवहाराः प्रवर्तिताः ।।१।।
भरतप्रमुखाः जाताः, शुभोदकधियः सुताः । शतशाखतया तस्य, कुटुम्बं ववृधे प्रभोः ।।२।।
'त्र्यशीतिपूर्वलक्षाणि, प्रकाश्य सकलाः कलाः । विभज्य राज्यं पुत्रेषु, दत्त्वा हित्वा परिग्रहम् ।।३।।
प्रभुश्चैत्रासिताष्टम्यां, चातुर्माष्टिकलोचकृत् । प्रवव्राज सुराधीश-कृतोत्सवपरम्परः ।।४।।
ततः कच्छमहाकच्छा-दयः प्रौढकुलोद्भवाः । चतुःसहस्रप्रमिता-स्तमनु प्राव्रजन् प्रभुम् ।।५।।'
परं ते स्वामिवत् कष्टं, घोरं निर्मातुमक्षमाः । जटिलीभूतमूर्धानः, क्रमाजाता जटाधराः ।।६।।
गङ्गादिसरितां तीरे, कृतसेवालभक्षणाः । कालं निर्गमयामासु-र्लजया वेषधारिणः ।।७।।
स्वामी तु प्रासुकाहारा-ऽप्राप्त्या नित्यमुपोषितः । विजहार भुवं मौन-व्रतवान्वीतदूषणः ।।८।। २. “अशीति-" इत्यपि ।।
४९
उपदेश सप्तति