________________
यत्र जिनतिलकदाना-दमयन्त्यापे कृतानुरूपफलम् । भाले भास्वत्तिलकं, स जयत्यष्टापदगिरीशः ।।१०।।
चतुरश्चतुरोऽष्टादश, द्वौ चापाच्यादिदिक्षु जिनराजान् । यत्र स्तौति शिवार्थी, स जयत्यष्टापदगिरीशः ।।११।।
एता एकादशगाथाः श्रीतीर्थकल्पे ।। श्रुत्वेति गिरिमाहात्म्यं, दशग्रीवः प्रमोदवान् ।। गीतनृत्यविधि तत्र, प्रारेभे भार्यया समम् ।।८।। नृत्यं मन्दोदरी वीणावादनं च दशाननः । जिनाग्रे चक्रतुः प्रीत्या, धरणेन्द्रे पुरस्थिते ।।९।। अथ नाट्यरसोत्कर्षे, जाते प्रीतिपदे नृणाम् । तुत्रोट तन्त्री(तुत्रोट)वीणायाः, सम्पत्तिरिव पापिनः ।।१०।। रावणो रसभङ्गं तं, विज्ञाय भुजकोटरात् । आचकर्ष स्नसामेकां, प्रलम्बामविलम्बतः ।।११।। संयोज्य तत्र तामाशु, वीणां प्राग्वदवीवदत् । . . तस्योपरि तदा देवाः, पुष्पवर्ष वितेनिरे ।।१२।। रावणस्तीर्थकृत्कर्म, तदोपार्जयदद्भुतम् । किं न दत्ते यतो जैनी, भक्तिः कल्पलताधिका ।।१३।। सन्तुष्टो धरणेन्द्रोऽपि, तस्मै पुण्यवते ददौ । अमोघविजयां शक्तिं, त्रैलोक्यजयकारिणीम् ।।१४।। एवं तत्र स्नात्रनृत्योत्सवोधैः, सर्वे जन्म स्वं कृतार्थ विधाय । जग्मुः स्वस्वस्थानके प्राणिवर्गा-स्तस्मादेवं पूजनीया जिनेन्द्राः ।।१५।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे द्वादश उपदेशः ।।१२।। १. “त्सवाद्यः" इत्यपि ।
४८
उपदेश सप्तति